अपराजिता स्तोत्रम्

अपराजिता स्तोत्रम्

प्रेषित समय :19:35:11 PM / Wed, Sep 28th, 2022

अपराजिता स्तोत्रम्

श्रीत्रैलोक्यविजया अपराजितास्तोत्रम् ।

ॐ नमोऽपराजितायै ।

ॐ अस्या वैष्णव्याः पराया अजिताया महाविद्यायाः

वामदेव-बृहस्पति-मार्कण्डेया ऋषयः ।

गायत्र्युष्णिगनुष्टुब्बृहती छन्दांसि ।

लक्ष्मीनृसिंहो देवता ।

ॐ क्लीं श्रीं ह्रीं बीजम् ।

हुं शक्तिः ।

सकलकामनासिद्ध्यर्थं अपराजितविद्यामन्त्रपाठे विनियोगः ।

नमस्कृत्य पपाठैनां मार्कण्डेयो महातपाः ॥ ३॥

मार्कण्डेय उवाच -

श‍ृणुष्वं मुनयः सर्वे सर्वकामार्थसिद्धिदाम् 

असिद्धसाधनीं देवीं वैष्णवीमपराजिताम् ॥ ४॥

ॐ नमो नारायणाय, नमो भगवते वासुदेवाय,

नमोऽस्त्वनन्ताय सहस्रशीर्षायणे, क्षीरोदार्णवशायिने,

शेषभोगपर्य्यङ्काय, गरुडवाहनाय, अमोघाय

अजाय अजिताय पीतवाससे,

ॐ वासुदेव सङ्कर्षण प्रद्युम्न, अनिरुद्ध,

हयग्रीव, मत्स्य कूर्म्म, वाराह नृसिंह, अच्युत,

वामन, त्रिविक्रम, श्रीधर राम राम राम ।

वरद, वरद, वरदो भव, नमोऽस्तु ते, नमोऽस्तुते, स्वाहा,

गदया मुसलेन हलेन भस्मीकुरु कुरु स्वाहा ।

ॐ सहस्रबाहो सहस्रप्रहरणायुध,

जय जय, विजय विजय, अजित, अमित,

अपराजित, अप्रतिहत, सहस्रनेत्र,

ज्वल ज्वल, प्रज्वल प्रज्वल,

विश्वरूप बहुरूप, मधुसूदन, महावराह,

महापुरुष, वैकुण्ठ, नारायण,

पद्मनाभ, गोविन्द, दामोदर, हृषीकेश,

केशव, सर्वासुरोत्सादन, सर्वभूतवशङ्कर,

सर्वदुःस्वप्नप्रभेदन, सर्वयन्त्रप्रभञ्जन,

सर्वनागविमर्दन, सर्वदेवमहेश्वर,

सर्वबन्धविमोक्षण,सर्वाहितप्रमर्दन,

सर्वज्वरप्रणाशन, सर्वग्रहनिवारण,

सर्वपापप्रशमन, जनार्दन, नमोऽस्तुते स्वाहा ।

पठनीया प्रशस्ता वा साक्षात्सत्त्वगुणाश्रया ॥ ७॥

ॐ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥ ८॥

अथातः सम्प्रवक्ष्यामि ह्यभयामपराजिताम् ।

या शक्तिर्मामकी वत्स रजोगुणमयी मता ॥ ९॥

सर्वसत्त्वमयी साक्षात्सर्वमन्त्रमयी च या ।

या स्मृता पूजिता जप्ता न्यस्ता कर्मणि योजिता ।

सर्वकामदुघा वत्स श‍ृणुष्वैतां ब्रवीमि ते ॥ १०॥

य इमामपराजितां परमवैष्णवीमप्रतिहतां

अभये, अनघे, अजिते, अमिते, अमृते, अपरे,

अपराजिते, पठति, सिद्धे जयति सिद्धे,

स्मरति सिद्धे, एकोनाशीतितमे, एकाकिनि, निश्चेतसि,

सुद्रुमे, सुगन्धे, एकान्नशे, उमे ध्रुवे, अरुन्धति,

गायत्रि, सावित्रि, जातवेदसि, मानस्तोके, सरस्वति,

धरणि, धारणि, सौदामनि, अदिति, दिति, विनते,

सत्योपयाचनकरि, स्थलगतं जलगतं अन्तरिक्षगतं

वा मां रक्ष सर्वोपद्रवेभ्यः स्वाहा ।

यस्याः प्रणश्यते पुष्पं गर्भो वा पतते यदि ।

म्रियते बालको यस्याः काकवन्ध्या च या भवेत् ॥ ११॥

धारयेद्या इमां विद्यामेतैर्दोषैर्न लिप्यते ।

गर्भिणी जीववत्सा स्यात्पुत्रिणी स्यान्न संशयः ॥ १२॥

भूर्जपत्रे त्विमां विद्यां लिखित्वा गन्धचन्दनैः ।

एतैर्दोषैर्न लिप्येत सुभगा पुत्रिणी भवेत् ॥ १३॥

रणे राजकुले द्यूते नित्यं तस्य जयो भवेत् ।

शस्त्रं वारयते ह्येषा समरे काण्डदारुणे ॥ १४॥

एतस्याः स्मृतिमात्रेण भयं क्वापि न जायते ॥ १६॥

नोपसर्गा न रोगाश्च न योधा नापि तस्कराः ।

न राजानो न सर्पाश्च न द्वेष्टारो न शत्रवः ॥१७॥

यक्षराक्षसवेताला न शाकिन्यो न च ग्रहाः ।

अग्नेर्भयं न वाताच्च न स्मुद्रान्न वै विषात् ॥ १८॥

कार्मणं वा शत्रुकृतं वशीकरणमेव च ।

उच्चाटनं स्तम्भनं च विद्वेषणमथापि वा ॥ १९॥

न किञ्चित्प्रभवेत्तत्र यत्रैषा वर्ततेऽभया ।

पठेद् वा यदि वा चित्रे पुस्तके वा मुखेऽथवा ॥ २०॥

हृदि वा द्वारदेशे वा वर्तते ह्यभयः पुमान् ।

प्रातः कुमारिकाः पूज्याः खाद्यैराभरणैरपि ।

तदिदं वाचनीयं स्यात्तत्प्रीत्या प्रीयते तु माम् ॥ २४॥

ॐ अथातः सम्प्रवक्ष्यामि विद्यामपि महाबलाम् ।

सर्वदुष्टप्रशमनीं सर्वशत्रुक्षयङ्करीम् ॥ २५॥

दारिद्र्यदुःखशमनीं दौर्भाग्यव्याधिनाशिनीम् ।

भूतप्रेतपिशाचानां यक्षगन्धर्वरक्षसाम् ॥ २६॥

डाकिनी शाकिनी-स्कन्द-कूष्माण्डानां च नाशिनीम् ।

महारौद्रिं महाशक्तिं सद्यः प्रत्ययकारिणीम् ॥ २७॥

गोपनीयं प्रयत्नेन सर्वस्वं पार्वतीपतेः ।

तामहं ते प्रवक्ष्यामि सावधानमनाः श‍ृणु ॥ २८॥

एकान्हिकं द्व्यन्हिकं च चातुर्थिकार्द्धमासिकम् ।

द्वैमासिकं त्रैमासिकं तथा चातुर्मासिकम् ॥ २९॥

पाञ्चमासिकं षाङ्मासिकं वातिक पैत्तिकज्वरम् ।

श्लैष्पिकं सात्रिपातिकं तथैव सततज्वरम् ॥ ३०॥

रजनि सन्ध्ये, दुन्दुभिनादे, मानसवेगे, शङ्खिनि,

चक्रिणि गदिनि वज्रिणि शूलिनि अपमृत्युविनाशिनि

विश्वेश्वरि द्रविडि द्राविडि द्रविणि द्राविणि रामणि,

धरणि धारिणि, तपनि तापिनि, मदनि मादिनि, शोषणि सम्मोहिनि ।

नीलपताके महानीले महागौरि महाश्रिये ।

महाचान्द्रि महासौरि महामायूरि आदित्यरश्मि जाह्नवि ।

यमघण्टे किणि किणि चिन्तामणि ।

सुगन्धे सुरभे सुरासुरोत्पन्ने सर्वकामदुघे ।

यद्यथा मनीषितं कार्यं तन्मम सिद्ध्यतु स्वाहा ।

ॐ स्वाहा ।

ॐ भूः स्वाहा ।

ॐ भुवः स्वाहा ।

ॐ स्वः स्वहा ।

ॐ महः स्वहा ।

ॐ जनः स्वहा ।

ॐ तपः स्वाहा ।

ॐ सत्यं स्वाहा ।

ॐ भूर्भुवः स्वः स्वाहा ।

पाशेन बद्ध्वा तं साधमानवन्तीं तदन्तिके ।

अर्द्धरात्रस्य समये देवीं धायेन्महाबलाम् ॥ ४१॥

यस्य यस्य वदेन्नाम जपेन्मन्त्रं निशान्तके ।

तस्य तस्य तथावस्थां कुरुते सापि योगिनी ॥ ४२॥

ॐ बले महाबले असिद्धसाधनी स्वाहेति ।

अमोघां पठति सिद्धां श्रीवैष्णवीम् ॥ ४३॥

श्रीमदपराजिताविद्यां ध्यायेत् ।

दुःस्वप्ने दुरारिष्टे च दुर्निमित्ते तथैव च ।

व्यवहारे भेवेत्सिद्धिः पठेद्विघ्नोपशान्तये ॥ ४४॥

यदत्र पाठे जगदम्बिके मया

विसर्गबिन्द्वऽक्षरहीनमीडितम् ।

तदस्तु सम्पूर्णतमं प्रयान्तु मे

सङ्कल्पसिद्धिस्तु सदैव जायताम् ॥ ४५॥

तव तत्त्वं न जानामि कीदृशासि महेश्वरि ।

यादृशासि महादेवी तादृशायै नमो नमः ॥ ४६॥

इस स्तोत्र का विधिवत पाठ करने से सब प्रकार के रोग तथा

सब प्रकार के शत्रु और सब बन्ध्या दोष नष्ट होता है ।

विशेष रूप से मुकदमें में सफलता और राजकीय कार्यों में

अपराजित रहने के लिये यह पाठ रामबाण है ।

Koti Devi Devta

Source : palpalindia ये भी पढ़ें :-

हाईकोर्ट में ईसाई धर्मगुरु पीसी सिंह ने जमानत के लिए लगाई याचिका, जबलपुर ईओडब्ल्यू ने कहा साक्ष्य प्रभावित हो सकते है, न दी जाए जमानत

मोहन भागवत का बड़ा बयान: कहा- हिंदू बनने के लिए धर्म बदलने की जरूरत नहीं, हिंदुस्तान के सभी लोग हिंदू हैं

जबलपुर में ईसाई धर्मगुरु पीसी सिंह का एक और कारनामा सामने आया, पत्नी नोरा सिंह को 8 संस्थाओं से दिलाता रहा सैलरी

Leave a Reply