श्री मल्लिकार्जुन भ्रमराम्बिका स्तोत्रावलि

श्री मल्लिकार्जुन भ्रमराम्बिका स्तोत्रावलि

प्रेषित समय :22:09:00 PM / Wed, Sep 14th, 2022

ॐ नमो भगवतो बलेन भगवतो वीर्येण भगवतः कौतुका भगवतः कर्मणा भगवतः अनुज्ञाप्य । चंडादि द्वारपालेभ्यो नमः अनुज्ञाप्य
श्री मल्लिकार्जुन भ्रमराम्बिका सुप्रभात स्तोत्रम् ।।
प्रातःस्मरामि गणनाथमनाथबंधुं सिंदूरपूरपरिसेवितगंडयुग्मम् ।
उद्दंडविघ्नपरिखंडन चंड दंडमाखंडलादि सुरनायक बृंदवन्द्यम्।।1।।
कलाभ्याम् चूडालंकृत शशिकलाभ्याम् निजतपः फलाभ्याम् भक्तेषु प्रकटित फलाभ्याम भवतु मे ।
शिवाभ्यामस्तोकत्रिभुवनशिवाभ्याम् हृदि पुनर्भवाभ्यामानंदस्फुरदनुभवाभ्याम् नतिरियम् ।।2।।
नमस्ते नमस्ते महादेव शंभो नमस्ते नमस्ते दयापूर्णसिंधो ।
नमस्ते नमस्ते प्रपन्नात्मबंधो नमस्ते नमस्ते नमस्ते महेश ।।3।।
शश्वच्छ्रीगिरिमूर्धनि त्रिजगतां रक्षाकृतौ लक्षितां ।
साक्षादक्षतसत्कटाक्षसरणि श्रीमत्सुधावर्षिणीम् ।
सोमार्धांकितमस्तकाम् प्रमतां निःसीमसंपत्प्रदाम् ।
सुश्लोकाम् भ्रमराम्बिकाम् शंभोःसखीम् त्वां नुमः ।।4।।
मातःप्रसीद सदया भव भव्यशीले लीलालवाकुलित दैत्यकुलापहारे ।
श्रीचक्रराजनिलये श्रुतगीतकीर्ते श्रीशैलनाथदयिते तव सुप्रभातम् ।।5।।
शंभो सुरेंद्रनुत शंकर शूलपाणे चंद्रावतंस शिव शर्व पिनाकपाणे ।
गंगाधर क्रतुपते गरुडध्वजाप्त श्रीमल्लिकार्जुनविभो तव सुप्रभातम् ।।6।।
विश्वेश विश्वजनसेवित विश्वमूर्ते विश्वंभर त्रिपुरभेदन विश्वयोने ।
फालाक्ष भव्यगुण भोगिविभूषणेश श्रीमल्लिकार्जुनविभो तव सुप्रभातम् ।।7।।
कल्याणरूप करुणाकर कालकंठ कल्पद्रुमप्रसवपूजित कामदायिन् ।
दुर्नीतिदैत्यदलनोद्यत देव देव श्रीमल्लिकार्जुनविभो तव सुप्रभातम् ।।8।।
गौरीमनोहर गणेश्वरसेवितांघ्रे गंधर्वयक्षसुरकिन्नरगीतकीर्ते ।
गंडावलंबिफणिकुण्डलमंडितास्य श्रीमल्लिकार्जुनविभो तव सुप्रभातम् ।।9।।
नागेंद्रभूषण निरीहित निर्विकार निर्माय निश्चल निरर्गल नादभेदिन् ।
नारायणीप्रिय नतेष्टद निर्मलात्मन् श्रीपर्वताधिपविभो तव सुप्रभातम् ।।10।।
सृष्टं त्वयैव जगदेतदशेषमीश रक्षाविधिश्च विधिगोचर तावकीनः ।
संहारशक्तिरपि शंकर किंकरी ते श्रीशैलशेखरविभो तव सुप्रभातम् ।।11।।
एकस्त्वमेव बहुधा भव भासि लोके निःशंकधीर्वृषभकेतन मल्लिनाथ ।
श्रीभ्रामरीप्रिय सुखाश्रय लोकनाथ श्रीशैलशेखरविभो तव सुप्रभातम् ।।12।।
पातालगांगजलमज्जननिर्मलांगाः भस्मत्रिपुंड्रसमलंकृतफालभागाः ।
गायंति देवमुनिभक्तजना भवंतं श्रीमल्लिकार्जुन विभो तव सुप्रभातम् ।।13।।
सारस्वतांबुयुतभोगवतीश्रितायाः ब्रह्मेशविष्णुगिरिचुंबितकृष्णवेण्याः ।
सोपानमार्गमधिरुह्य भजंति भक्ताः श्रीमल्लिकार्जुन विभो तव सुप्रभातम् ।।14
श्रीमल्लिकार्जुन महेश्वरसुप्रभात स्तोत्रम् पठंति भुवि ये मनुजाः प्रभाते ।
ते सर्वसौखअयमनुभूय परानवाप्यं श्री शांभवं पदमवाप्य मुदं लभंते ।।15।।
।। श्रीमल्लिकार्जुनभ्रमराम्बिकास्तोत्रम् ।।
नमःशिवाभ्याम् नवयौवनाभ्याम् परस्पराश्लिष्टवपुर्थराभ्याम् ।
नगेंद्रकन्या वृषकेतनाभ्याम् नमो नमःशंकरपार्वतीभ्याम् ।।1।।
नमःशिवाभ्याम् वृषवाहनाभ्याम् विरिंञ्चिविष्ण्विंद्रसुपूजिताभ्याम् ।
विभूति पाटीरविलेपनाभ्याम् नमो नमःशंकरपार्वतीभ्याम् ।।2।।
अनघं जनकं जगतां प्रथमं वरदं करशूलधरं सुलभम् ।
करुणांबुनिधिं कलुषापहरं प्रणमामि महेश्वरमेकमहम् ।।3।।
अमलं कमलोद्भवगीतगुणं शमदं समदासुरनाशकरम् ।
रमणीयरुचिं कमनीयतनुं नमः सांबशिवं नतपापहरम् ।।4।।
शिवं शंकरं बंधुरं सुंदरेशं नटेशं गणेशं गिरीशं महेशं ।
दिनेशेंदुनेत्रं सुगात्रं मृडानीपतिं श्रीगिरीशं हृदा भावयामि ।।5।।
भृङ्गीच्छानटनोत्कटः करिमदग्राहि स्फुरन्माधवाह्लादो नादयुतो महासितवपुः पंचेषुणा चा धृतः ।
सत्पक्षः सुमनोवनेषु स पुनःसाक्षान्मदीये मनो राजीवे भ्रमराधिपो विहरताम् श्रीशैलवासी विभुः ।।6।।
सोमोत्तंसःसुरपरिषदामेष जीवातुरीशः पाशच्छेत्ता पदयुगजुषां पुल्लमल्लीनिकाशः ।
ध्येयो देवः प्रकटितवधूरूपवामात्मभागः श्रीशैलाग्रे कलितवसतिर्विश्वरक्षाधुरीणः ।।7।।
एणं पाणौ शिरसि तरुणोल्लासमेणांकखण्डं पार्श्वे वामे वपुषि तरुणीं दृक्षु कारुण्यलीलाम् ।
भूतिं फाले स्मितमपि मुखे गांगमंभः कपर्दे बिभ्रत्प्रेम्णा भुवनमखिलं श्रीगिरीशः स पायात् ।।8।।
श्रीशैले स्वर्णशृंगे मणिगणरचिते कल्पवृक्षालिशीते । स्फीते सौवर्ण रत्नस्फुरितनवगृहे दिव्यपीठे शुभार्हे ।
आसीनःसोमचूडःसकरुणनयनःसांगनःस्मेरवक्त्रः ।
शंभुःश्रीभ्रामरीशः प्रकटितविभवो देवतासार्वभौमः ।।9।।
या योगिबृंदहृदयांबुजराजहंसी मंदस्मितस्तुतमुखी मधुकैटभघ्ने ।
विघ्नांधकारपटभेदपटीयसी सा मूर्तिः करोतु कुतुकं भ्रमरांबिकायाः ।।10।।
कस्तूरीतिलकांचितेंदुविलस्त्प्रोद्भासिफालस्थलीं कर्पूरद्रवमिश्रचूर्णखपुरामोदोल्लसद्वीटिकाम् ।
लोलापांगतरंगितैः अतिकृपासारैर्नतानंदिनीं श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ।।11।।
राजन्मत्तमरालमंदगमनां राजीवपत्रेक्षणां राजीवप्रभवादिदेवमकुटै राजत्पदांभोरुहाम् ।
राजीवायतपत्रमंडितकुचां राजाधिराजेश्वरीं श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ।।12।।
श्रीनाथादृतपालितत्रिभुवनां श्रीचक्रसंचारिणीं गानासक्तमनोज्ञयौवनलसद्गंधर्वकन्यावृतां ।
दीनानामतिवेलभाग्यजननीम् दिव्याम्बरालंकृतां श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ।।13।।
उभौ दर्वीकुंभौ मणिकनकसंभावितगुणौ दधाना पाणिभ्याममृतरसमृष्टान्नकलितौ ।
कलाढ्या कल्याणी कलितसदना श्रीगिरिशिरस्यसौ भ्रामर्यंबा रचयतु मदिष्टार्थविभवम् ।।14।।
।। श्रीमल्लिकार्जुनप्रपत्तिः।।
जय जय जय शंभो जंभभित्पूर्वदेव प्रणतपदसरोजद्वंद्व निर्द्वंद्व बंधो ।
जय जय जय जन्मस्थेमसंहारकार प्रणयसगुणमूर्ते पालयास्मान्प्रपन्नान् ।।1।।
वधूमुखं वल्गदपांगरेखं अखंडितानंदकरप्रसादम् । विलोकयन् विस्फुरदात्मभावः स मे गतिःश्रीगिरिसार्वभौमः ।।2।।
कुरंगपाणिः करुणावलोकः सुरोत्तमश्चंद्रकलावतंसः । वधूसहायःसकलेष्टदाता भवत्यसौ श्रीगिरिभाग्यराशिः ।।13।।
संध्यारंभविजृंभितं श्रुतिशिरःस्थानांतराधिष्ठितं सप्रेमभ्रमराभिराममसकृत्सद्वासनाशोभितम् ।
भोगींद्राभरणं समस्तसुमनःपूज्यं गुणाविष्कृतं सेवे श्रीगिरिमल्लिकार्जुनमहालिंगं शिवालिंगितम् ।।14।।
या मूलं सचराचरस्य जगतः पुंसः पुराणी सखी व्यक्तात्मा परिपालनाय जगतामाप्तावतारस्थितिः ।
दुष्टध्वंस सदिष्टदानविधये नानासनाद्यासिनी श्रीशैलाग्रनिवासिनी भवतु मे श्रेयस्करी भ्रामरी ।।15।।
यत्तेजःपरमाणुरेतदखिलं नाना स्फुरन्नामभिः भूतं भावि भवच्चराचरजगद्धत्ते बहिश्चांतरे ।
सा साक्षात्भ्रमराम्बिका शिवसखी श्रीशैलवासोत्सुका दिश्यादाश्रितलोककल्पलतिका श्रेयांसि भूसांसि नः ।।16।।
शरणम् तरुणेदुशेखरःशरणमं मे गिरिराजकन्यका । शरणम् पुनरेव तावुभौ शरणम् नान्यदुपैमि दैवतम् ।।17।।
।। श्रीमल्लिकार्जुनभ्रमराम्बायाःमंगलाशासनम् ।।
उमाकांताय कांताय कामितार्थ प्रदायिने । श्रीगिरीशाय देवाय मल्लिनाथाय मङ्गलम् ।।1।।
सर्वमङ्गलरूपाय श्रीनगेंद्रनिवासिने । गंगाधराय नाथाय श्रीगिरीशाय मङ्गलम् ।।2।।
सत्यानंदस्वरूपाय नित्यानंदविधायिने । स्तुत्याय श्रुतिगम्याय श्रीगिरीशाय मङ्गलम् ।।3।।
मुक्तिप्रदाय मुख्याय भक्तानुग्रहकारिणे । सुंदरेशाय सौम्याय श्रीगिरीशाय मङ्गलम् ।।4।।
श्रीशैलेशचरणशरणाष्टकम् ।।
गौरीमनोहर सुरासुरमौनिबृंद संसेवितांघ्रियुग चंद्रकलावतंस ।
कैलासवास करुणाकर भक्तबंधो श्रीशैलवास चरणं शरणं तवास्मि ।।1।।
भक्तार्तिहार भवबंधविनाशकेश दिव्यापगा कलित कांत जटाकलाप ।
शेषाहिभूष वृषवाहन व्योमकेश श्रीशैलनाथ चरणं शरणं तवास्मि ।।2।।
भृंगीशसेवित गणेशकुमारतात मृत्युञ्जय त्रिपुरदानवभेदकारिन् ।
पाणावुपात्त मृग डामरुक त्रिशूल श्रीशैलवास चरणं शरणं तवास्मि ।।3।।
नागेंद्रचर्मवसनाग्नि रवींदु नेत्र नारायणीप्रिय महेश नगेश शंभो ।
मौनिप्रियाश्रित महाफलदोग्ररूप श्रीशैलनाथ चरणं शरणं तवास्मि ।।4।।
सर्वार्तिभंजन सदाशिव दानवारे पार्थप्रहार कलितोत्तममूर्थभाग ।
यक्षेश सेवित पदाब्ज विभूतिदायिन् श्रीशैलवास चरणं शरणं तवास्मि ।।5।।
श्रीभ्रामरीश मदनांतक कृत्तिवास सर्पास्थि रुंड कलिता मलहारधारिन् ।
भूतेश खंडपरशो भवबंधनाश श्रीशैलनाथ चरणं शरणं तवास्मि ।।6।।
सर्वागमस्तुत पवित्रचरित्र नाथ यज्ञप्रिय प्रणतदेवगणोत्तमांग ।
कल्पद्रुमप्रसवपूजितदिव्यपाद श्रीशैलवास चरणं शरणं तवास्मि ।।7।।
शंभो गिरीश हर शूलधरांधकारे श्रीशैलवास भ्रमराम्बिकया समेत ।
श्रीपार्वतीदयित साक्षिगणाधिपेड्य श्रीशैलनाथ चरणं शरणं तवास्मि ।।8।।
श्रीशैलं शिखरेश्वरं गणपतिं श्रीहाटकेशं पुनःसारंगेश्वर बिंदुतीर्थममलं घंटार्कसिद्धेश्वरं ।
गंगां श्रीभ्रमराम्बिकां गिरिसुतामारामवीरेश्वरं शंखं चक्र वराह तीर्थकलितं श्रीशैलनाथं भजे ।।9।।
।। शिवमानसपूजा ।।
रत्नैःकल्पितमासनम् हिमजलैः स्नानम् च दिव्याम्बरम् । नानारत्नविभूषितम् मृगमदामोदाङ्कितम् चंदनम् ।
जातीचंपकबिल्वपत्ररचितम् पुष्पम् च धूपम् तथा । दीपम् देव दयानिधे पशुपते हृत्कल्पितम् गृह्यताम् ।।1।।
सौवर्णे नवरत्न खण्डरचिते पात्रे घृतम् पायसम् । भक्ष्यम् पंञ्चविधम् पयोदधियुतम् रंभाफलम् पानकम् ।
शाकानामयुतम् जलम् रुचिकरम् कर्पूरखंडोज्ज्वलम् । तांबूलम् मनसा मया विरचितम् भक्त्या प्रभो स्वीकुरु ।।2।।
छत्रम् चामरयोर्युगम् व्यजनकम् चादर्शकम् निर्मलम् । वीणाभेरि मृदंग काहलकलागीतम् च नृत्यम् तथा ।
साष्टांगम् प्रणतिः स्तुतिर्भहुविधा ह्येतत्समस्तम् मया । संकल्पेन समर्पितम् तव विभो पूजाम् गृहाण प्रभो ।।3।।
आत्मा त्वम् गिरिजा मतिः सहचराः प्राणाः शरीरम् गृहम् । पूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः ।
संचारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो । यत्कर्म करोमि तत्तदखिलम् शंभो तवाराधनम् ।।4।।
करचरणकृतम् वा कर्म वाक्कायजम् वा । श्रवण नयनजम् वा मानसम् वाऽपराधम् ।
विहितमविहितम् वा सर्वमेतत् क्षमस्व । जय जय करुणाब्धे श्रीमहादेव शंभो ।।5।।
वागर्थाविव संपृक्तौ वागर्थ प्रतिपत्तये । जगत् पितरौ वन्दे पार्वती परमेश्वरौ ।।
श्रृतिस्मृति पुराणानाम् आलयं करुणालयम् । नमामि भगवत्पाद शङ्करम् लोकशङ्करम् ।।
।। सर्वं श्रीउमामहेश्वरपरब्रह्मार्पणमस्तु ।। स्वस्ति ।।
Koti Devi Devta

Source : palpalindia ये भी पढ़ें :-

श्रीगणेश पूजा के नियम और सावधानियां

पितृ पूजा या पितर कर्म क्यों करना चाहिए?

तुरंत सफलता के लिए माँ विन्ध्येश्वरी साधना की पूजा करना चाहिए

भगवान श्रीकृष्ण का जन्मोत्सव, विभिन्न शहरों में पूजा का समय....

Leave a Reply